जगदचनवाहिनी एस्‌.जगन्नाथः

जगदचनवाहिनी

कननडभाषागोचरस्य वचनवाङ्खयस्य ौलीमनुक्रत्य अष्टोत्तरदातसङ्ाकर्गद्यवचने मेसूरवीयेन एस्‌.जगन्नाथेन प्रवाहिता।

381181९11{€ [00018 इत्यभिधानेऽन्त्जलस्थाने ठाङ्रेण प्रकारिता

© 3.488111181118., (818 पा-प्

18111118 @€171811.८0ा1

अक्टोबर्‌ २०१८

इदमत्र वक्तव्यम्‌-

ममेयं नवीना कृति? वचनवाङ्कयमिति कन्नडभाषायां प्रसिद्धस्य वाङ्खयस्य क्वाचित्केनाक्रृत्यनुकरणेन सृष्टानां वाक्यानां संकलनम्‌ प्रतिवचनं वचनकाराणां वास्तविकमभिधानमाहोखित्‌ स्वयं सृष्टं नाम वा योज्यते मयाऽपि तदनुकृत्या “जगत्‌ इति नाम योजितम्‌।

वचनमिति शब्द उक्तिरित्यर्थ वक्तीति सुप्रथितम्‌। सर्वज्ञेन रचितानि सुभाषितप्रायाणि कननडवचनानि पद्यमयानि वीरदौववचनवाङ्कयं तु गद्यमयं यत्र-आध्याल्मिका विचारा, आराध्ये भगवति रिवे भक्त्यतिरायस्य महत्वं, लौकिकेषु विषयेष्वासक्तिनिषेध, अन्धपरम्पराया$ खण्डनं चेत्येतदादिकं प्रतिपाद्यं वस्तु।

यद्यपि वचनमिति शब्दस्येव गद्यमिति नार्थस्तथापि वीरदीववचनानां सर्वेषामपि गद्ये रचितत्वात्‌ कालक्रमेण वचनमिति शब्दस्य गद्येन कथनमित्यर्थष कन्नड रूढोऽभवत्‌। यथा ए.आर्‌ .कृष्णशास्तरिणा विरचितं कन्नडगद्यभारतं वचनभारतम्‌ ”' इत्यभिधानयुक्‌।

मात्रकासु लिखितेषु वचनेषु वाक्यानां समाप्तौ दण्डचिह्लस्य सत्त्वेऽपि वाक्यभेदानुसारेण पड्िभेदो गोचरीभवति दण्डचिह्वस्य मूलरचयितृभिरेव स्थापितत्वेऽपि तत्र केचन व्यत्यया लिपिकरैरपि सृष्टा इव पूर्वं मुद्वितेष्वपि वचनवाङ्येषु पड़्भिदो नासीत्‌ मातृकासु स्थापितानां वचनवाङ्यगतानां दण्डस्थलानामाधारेण नवीनाः संपादका वचनानां मुद्रणाया समये पङ्भिद कुर्वन्‌

एतं पङ्िभिदमनुुत्य संगीतार्हेषु तालवास्तुषु कर्षणविकर्षणाभ्यां वचनान्युपवेशय्य सविविधरागं गायनं त्वाधुनिकी प्रवृत्तिरित्यन्यदेतत्‌।

मम मित्रमणि श्रीमान्‌ शङ्करो यथापूर्वं ममेतामपि रचनां प्रकाङयति तस्मै भूरिशो वन्दनानि समर्पये।

अक्टोबर्‌ २०१८ एर भे

जगद्रचनवाहिनी एस्‌ .जगन्नाथ

क्रियाद्‌ व्यवहूतीरलं सदसतोस्सुयोग्या अनु- सियाच्च मतिमाञ्जनः स्वहूदयोपदेशाध्वनिम्‌। हियाद्‌ विकृतचिन्तनं कलुषवृन्दसंक्षालिनी जगदचनवाहिनी सपरुषोक्तिवीच्युत्कटा

१.मल्लो जन को हस्तबाहूुविनाक्रतः ?

बुद्धिमान्‌ जन को मस्तिष्कविनाकृत8 ?

आर्यो जन? स्थानेकोपविनाक्रत8 ?

विद्वान्‌ जन कः स्वाभिमानविनाकरत ?

राजधर्मवान्‌ जन को जिह्धानियन्त्रणाविनाक्रत ? +जगत्‌!

२.मा जपानि मन्त्रं “पूर्वस्मिन्‌ काले सर्वे लोकोद्धारका आसन्‌ "इति

मा जपानि मन्त्रम्‌ ° आधुनिकाः सर्वे परापकारात्‌ पापिष्ठा? इति।

मा जपानि मन्त्रं “विङ्वविद्यानिलये प्राप्तपदवीका? सर्वे विद्यावन्त इति।

मा जपानि मन्त्रं “सर्वेषां गानं कर्णरसायनम्‌ इति।

मा जपानि मन्त्रं अधिभारतं ग्रन्थान्‌ रचयितारो विदेशीया सर्वेऽपि सत्यहरिङ्चन्द्रस्येव वंो जाता ` इति +जगत्‌!

३. अपश्यं तन्त्रशास्त्रोक्तसाधननिरतान्‌ जनान्‌ अपश्यं तन्त्रशास्त्रग्रन्थपाठकान्‌ जनान्‌। अपश्यं रचिततन्त्रशास्त्रग्रन्थान्‌ जनान्‌।

जगद्वचनवादिनी

अपश्यं कृततन्त्रशास्त्रविषयकसंरोधनग्रन्थान्‌ जनान्‌। नाप्य संप्राप्तन्त्रशास्त्रोक्तसिद्धीन्‌ जनान्‌ ,जगत्‌!

४. कर्णकुहरे निपतन्त्यसभ्यानि लपितानि विद्यया भूषितानामपि। कणभ्यिामास्वाद्यन्ते रसायनायमानानि भाषितान्यशिकषितानामपि। कुत्सितं विलो ठ्यन्ति स्वजिह्वां शास्त्रनिष्ठा अपि। मधुरोक्तीर्निश्सारयन्ति स्वमुखाद्‌ विद्यागन्धविधुरा अपि। अधिसमाजम्‌ - कस्यापि लक्षणस्य निर्मितिरसम्भवा , जगत्‌!

५. वृक्षकपिक्रीडामक्रीडाम, यदाऽऽस्म बाला वयम्‌। अन्याः क्रीडा? क्रीडन्ति बाला ये सां प्रतिका। स्मृतबाल्यकालिकघटना यापितामूल्यसमया वयम्‌। दर्लितनवीननिर्मितिकौरल्या आधुनिका बाला वयं वयम्‌। ते ते ,जगत्‌!

६. सरलम्‌-अज्ञानां पुरस्तात्‌ सुज्ञत्वख्यापनम्‌।

कष्टा -संगोधनग्रन्थरचनरूपेणाध्ययनेन बोधावापिः। सरलम्‌-मणिभूषणधारणम्‌।

कष्टं -समुद्रे मणीनामन्वेषणम्‌।

सरलं -पुष्पाणि तरूणां भूषणानीति दृष्टि६।

कष्टा पत्राणि तरूणां भूषणानीति दृष्टि, जगत्‌!

७. सर्वत्रापि “एनर्जी -फ्लो ` -योगिनाम्‌ आरभटी

सर्वत्र “इङ्ीष्‌ -योगि " नां डिण्डिमः।

सर्वत्र "पतज्जलिाब्दद्राङ्णयोगि * नां भेरी।

क्वास्ति पातजञ्जलसूत्रानुशासिते पथि योगिनां चलनं, जगत्‌! ?

जगद्वचनवादिनी

८. अ-चित्रकलाज्ञानाश्चित्रकलाम्‌ अन्येभ्यः शिक्षयितुं नार्हा अ-संगीतकलाज्ञानाः संगीतकलाम्‌ अन्येभ्य शिक्षयितुं नाहि कर्णभूषणीक्रियतामधुना केषाज्चित्‌ प्राचार्याणां वाक्यमुक्तामणि- “.मातुकास्थग्रन्थपाठसंपादनानुभवहीना एव

ग्रनसंपादनशास्त्रम्‌ अन्येभ्य शिक्षयितुम्‌ अर्हा”, जगत्‌!

९. किं नास्त्येष द्युण्डादण्डोत्पाटितमहाविटपी ?

किं नास्त्येष खड्िदन्दध॒तकण्ठहारई ?

किं नास्त्येष कायघर्षणभग्नतरुत्वचाक8 ? किन्तु हा हन्त, हन्त, वेतण्डवरिष्टठोऽपि सन्‌ अ-स्वाभिमान एष गज

स्वोत्तमाङ्े भषकमारोहयमाणस्तस्यादेशानां विधेयोऽस्ति+जगत्‌!

१०. संठायालु मनो "देवानां प्रीति पुष्पापकिषु पूर्णप्रसादा” इत्यत्र संदेहनिबिडं मानसं “देवानां रीति पत्रा्पकिषु समग्रानुग्रहा ' इत्यत्र | दृश्यते देवानां सन्तोषभूमा मकरन्दं चूषत्सु मिलिन्देषु

ईक्ष्यते देवानां प्रमोदातिङयः पत्रैरुदरं भरत्सु प्राणिषु।

जायते देवानामाह्लादो द्विरेफेषु दूनेषु सत्सु,जगत्‌!

११. “राम एतादृगासीत्‌, तादृशा तेन भाव्यमासीत्‌, कृष्णस्तादृगवर्तत, एतादृशा तेन वर्तितव्यमासीत्‌ "इत्येवं रामकृष्णयो्चरित्रचित्रपटे कृष्णमशीं केचिज्जना अन्वेषन्ते साहसिकास्तु रामायणभारते नवीने निर्माय

रावणेन रामं, कंसेन कृष्णं घातयन्ति+जगत्‌ !

१२.धुर्वेदनिख्ितत्वेन र्लाषितो रामो रिपूणां बाणैराहतः, अतिरथत्वेन इ्लाधितः पार्थोऽपि शत्रूणामिषुभिर्रणितः।

जगद्वचनवादिनी

यस्मिन्‌ विषये इलाघ्यन्ते जनास्ते कदाचित्‌ तस्मिन्नेव विषये उ्लाघनस्तराद्‌ गलन्ति+जगत्‌ !

१३. सप्रयोजनकर्मलेशेनापि हीना$ केचन -

अन्येषां द्िद्राण्यन्वेषमाणाई कालं यापयन्ति, तत्रानुभूतवेरस्या$ शवनिर्गच्छत्पूतिगन्धं उ्लाघन्ते , तत्राप्यनवहितमनस्कास्तु, गुणदोषौ विर्लिष्य विमृशतो जनान्‌ दृष्ट्रा “न केवलं दोषा एव निन्द्या, गुणा अपि निन्द्या एव?” इति गुर्गुरायन्ते, जगत्‌!

१४. सुगन्धप्रसारकेभ्यो भ्रमरप्रियेभ्य

सौन्दर्योपमानेभ्य

पादपाभरणायितेभ्यश्च सुमनोभ्य

मूलानि किमसूयन्ति यानि-

सर्वदा जलान्वेषणव्यग्राणि ,जगत्‌!

१५. सर्वेऽपि षट्पदा सबुद्धय

चिन्तनबलिष्ठा कायकिार्यकुशलाश्च, ये

जानन्त्येव कतमं पुष्पमुपसर्तव्यं कतमं नेति च।

ये तेभ्य उपदिदिक्षन्ति “अमुष्मादेव पुष्पान्मकरन्दश्चूषितव्य इति, प्रायस्ते अनिप्रतिपरिमला अस्पृष्टपरागा अदृष्टपुष्पाश्च ,जगत्‌! १६. तव जिह्वाऽस्तीति सत्यमङ्गीकुर्मः।

तामुपयोक्तुं तवोत्कटमभिलपितमस्तीत्यपि संमन्यामहे।

परन्तु तव द्रौ कर्णौ स्त इति बोधोऽस्ति ते किम्‌ ?

जिह्वा लोला, कर्णौ स्थिराविति प्रायो जानासि।

तस्मादेव सर्वज्ञाचार्यपीठे रिराजिषसे ,जगत्‌!

जगद्वचनवादिनी

१७. हे कोकिल! केवलं कूज मधुरम्‌

आनन्दमनुबुभूषु8 स्वरश्रेणीं निश्सारय कण्ठकुहरात्‌।

किमिति काकानां रासभानां गृहाण्यादहिण्डसे ?

स्तुहि मयूरम्‌, मा सेवस्व सूकरम्‌।

क्लाघस्व गाम्भीर्य गजस्य, मा मर्दय पादान्‌ ग्रामसिंहस्य, जगत्‌!

१८. लोकिकपरिज्ञानवाहुल्यात्‌ कारणात्‌ स्वाधीतविषयावबोधाधिक्यात्‌ कारणात्‌ नूतनवस्तुजातनिर्मितिनैपुण्यातिशयात्‌ कारणात्‌

निर्भीति प्रकाश्यमानजनतादोषाच्च कारणात्‌

प्रत्यग्रा एव जना प्राचीनकालिकजनानामपेक्षया प्रशस्ततरा$+जगत्‌!

१९. चञ्चुसूचिर्वयतु पत्राणि नीडनिर्माणार्थम्‌। एतेन तस्मे मा शुकोऽसूयतु ;

यस्यापि स्वसामर्थ्यं वर्तत एव वागुञ्चारणरूपम्‌, अथ च- मनुजवर्णोच्वारणानुकृतिरूपं ,जगत्‌!

२०. कोलाहलनिबिडाऽपि पद्धतिः प्रास्या यत्र निर्मल आनन्द? समुत्पद्यते

मौनगम्भीराऽपि पद्धतिर्हेया यत्र दुरहङ्कारपिशाचिका रुधिरं वमति।

सर्वं मौनं नैवाध्यास्मिकध्यानजं ,जगत्‌!

२१. यदि परविरचितपुरातनग्रन्थपथेषु स्वलनकाले चीत्कार एव तव स्वभाव,

जगद्वचनवादिनी

त्वद्रचितग्रन्थमरुभूमिषु प्रतिबिम्बन्ति त्वया लोके दृष्टाः प्राणिन, नापि ध्वनिं चिकीर्षन्ति त्वया साक्षात्कृतानि निर्जीवानि वस्तूनि- आगामिनि काले तव ग्रन्थेषु निहितदृर्वानो जना ^त्वयाऽनुभूतो राष्ट्र इत्थंभूतलक्षण आसीत्‌ * इति

कथं जानन्तु ?, जगत्‌!

२२. कश्चन संन्यासी स्वानुभवमित्थमकथयत्‌- “ध्यानयोगमनुतिष्ठतो मम चक्षुषोरस्फुरन्‌ ग्रहास्तत्रत्या जीविनश्च अपरश्च संन्यासी समभाषत-

“कृते ध्याने ये स्फुरन्ति ते केवलं किरणा पुनरग्रहा

क्रमेण तयोर्ध्यानयोग8 कलहयोगत्वेन पर्यणमत्‌,जगत्‌!

२३.किं नाम “° वर्ल्द्‌ -स्या्रीट्‌ -कानूफ़रेन्स्‌ त्वम्‌ ? इड्ीष्कस्य सिंहासनारूढत्वे सति संस्कृतस्य भिक्षायाचकत्वं वा ? इड्ीपष्मण्डूकरटनत्वे सति संस्करृतकोकिलकन्धराग्रूलत्वं वा ? इडीष्शिरसो मकरन्दाभिषिक्तत्वे सति

संस्करृेतशिरस शङ्ुभिर्घट्ितत्वं वा ?

राजसौध इडुीष्‌भाषाया विराजितत्वे

कस्माचित्सन्धेश्वोरस्येव संस्कृतस्य प्रविष्टत्वं वा ? ,जगत्‌!

२४. गर्ते पतितानामुपरि मृद्राठो प्रक्षेप इव, पथि पतितानां पादे क्रकचस्य प्रयोग इव, व्रणितानां त्रणे लवणस्य लेप इव,

जानुशूलेन सवेदनानां शिरसि दारुणा ताडनमिव, क्लेठग्रस्तानां चक्षुषि धूले8 पात? ,जगत्‌!

जगद्वचनवादिनी

२५. कपिभिरर्धभक्ितानि गलितानि पतितानि फलानि गुण्डयाऽऽदाय सप्रमोदमदन्तं गजमद्राक्षम्‌।

द्रोण्यामन्येन गवाऽर्धपीतं जलं घ्रात्वा

कन्धरामन्यत्र परिवर्त्य

निराकरतजलपानं गामप्यपश्यं ,जगत्‌!

२६. हे हे हरिण ! आकर्णय ममोपदेठम्‌।

प्रसन्नस्य सलिलस्य मृदुना स्पर्ोन

हित इव शान्त इव भासमाने तीरे

पादाभ्यां नर्तनात्‌ प्राक्‌

नक्रस्य नर्तनं चक्षुर्भ्यां द्यते किमिति निरीक्षस्व +जगत्‌!

२७. भाग्यवान्‌ पाठकेन जनेन वीक्षितो ग्रन्थ भाग्यवत्तरं रचयित्रा जनेन भावितं वस्तु।

भाग्यवन्ति सुवर्णभूषणेन भूषितान्यङ्गानि

भाग्यवत्तरं सुवर्णकारेण दृष्टं सुवर्णम्‌

भाग्यवत्तमा अत्र तारतम्यमभिजानन्तो जना + जगत्‌!

२८. गुणान्‌ सिंहासने समुपवेशय्य विधेहि पटाभिषेकं

दोषांश्च राजसौधद्राराद्‌ बहि पादाभ्यां जहि।

अत्र कोऽपि त्वां नाधिक्षिपति, निन्दति,

° ‹त्वयाऽपराधः कृतः इति नैव नैव नैव गर्जति

परन्तु "दोष" इति शब्दस्येव

“गुण” इत्यर्थ

त्वया विरच्यमाने निघण्टौ मा लिख मा लिख मा लिख, जगत्‌!

जगद्वचनवादिनी

२९. उदास्स्व नीचान्‌, उपास्स्व आर्यधुर्यान्‌, आख्याहि गणान्‌ सामान्यानामपि

आचक्ष्व लोकप्रसिद्धानामपि दोषान्‌

दरिद्रिहि स्वाभिमानेनोटजे

मा पुनरेधि अमार्गलब्धसंपत्त्या निर्मिते राजसौधे, इत्येतदादिवाक्यसूत्राणां वयनेन सृज्यमाना पटा अस्मन्मानसरीत्यनिवारका? सूक्तिकम्बला$ , जगत्‌!

३०. हे दन्तिन्‌ तवाग्रे स्थितः प्राणी खद्धीति जानासि किम्‌ ? हे खद्धिन्‌ तवाग्रे स्थितः प्राणी दन्तीति जानासि किम्‌ ?

अहं किं जानामि यद्‌ युवां द्वावपि परस्परेण युयुत्सू ? युवामपि जानीथ, अहमपि जानामि यत्‌-

युवयो कुटुम्बवरग्याणां चक्षरभ्य कदाऽश्रु खवतीति +जगत्‌!

३९. कस्यचिद्‌ विश्वविद्यानिलयस्य वास्तुषु

परदूषणङुल्कत्वेन वेतनं गिलतो मण्डूकानपश्यम्‌।

तान्‌ भक्षयितुमागच्छतः विद्याद्वेषाम्निं वमतः कालियसर्पाश्वापर्यम्‌ तस्माद्‌ विश्वविद्यानिलयाद्‌ बहिस्तु

सानन्दं तृणं चरताम्‌ अन्येषामपि स्वादु तृणं दर्शयतां हरिणानां वृन्दान्यप्यपश्यम्‌ + जगत्‌!

३२. केश्चिज्जनैरन्विष्यते

परेषां जनानां वैयक्तिकेषु व्यवहारेषु निम्नस्तरीयचिन्तनादिकं- येरुदास्यते स्वीयेषु व्यवहारेषु दुरभिमानादिकम्‌।

यदि तदेतद्‌ भवति, एतच्च तद्‌ भवति-

वसुन्धरायां वृन्दारकालयोऽवतरति, जगत्‌!

जगद्वचनवादिनी

३३..ठव8 कर्तास्मि,आगामिनि मासे करिष्यामि” इत्युक्त्वा कियच्चिरं व्याकषिपस्यद्य चिकीर्षितं कार्यम्‌ °?

“ठवो गन्तास्मि तत्स्थलमागामिनि मासे गमिष्यामि इत्युक्त्वा कियच्चिरं व्याक्षिपस्यद्य विधातव्यं गमनम्‌ ?

“ठवो मर्तास्मि आगामिनि मासे मरिष्यामि" इत्युक्त्वा कियच्चिरं व्याक्षिपस्यद्य प्राप्तव्यं मरणम्‌ जगत्‌!

३४. उपविशसि सिंहासने, उटजं मा विस्मर- यः पूर्वं दत्ताश्चयः। पटु वस्त्रं धरसि, पटच्चरं मा विस्मर- या पूर्वमाच्छादितररीरम्‌। ठेषे हंसतूलिकातत्पे, शष्पशय्यां मा विस्मर- या पूर्व दत्तररीरसुखा। दृष्टि स्वस्मिन्‌ सासूयां निपातयसे धनिकानां,

दुर्गति मा विस्मर- या पूर्वं संभृतस्वाभिमाना, अटालिकायामुपविशसि, मा विस्मर सोपानध्रेणीं

कारणं त्वमेव जानासि, जगत्‌!

३५. असति त्सरौ खड करेण कथं ग्रहीतव्य ?

असति सूत्रे पुष्पाणि कथं मालायां बन्धयितव्यानि ?

असति वृन्ते फलानि कथं शाखायामवलम्बितव्यानि ?

असति मूले कथं वृक्षेषु फलानि फलितव्यानि ?

असतीषु सहकारिसामग्रीषु कथं वस्तुभिर्यशाः प्राप्तव्यम्‌ ? जगत्‌!

३६. केचन जना ्चुपलतातरुगुल्मानां वर्धनाय आलवालेषु जलं सिञ्चन्ति प्रीत्या,

्ुपादिष्वड्ुरितेषु पलछवितेषु कुसुमितेषु फलितेषु सकरतालिका नृत्यन्ति प्रमोदबाष्पं मुञ्चन्ति।

अपरे तु जलमसिञ्चन्तः प्लास्टिकृपुष्पाणि तेषु लगयन्ति

जगद्वचनवादिनी

सगर्वा मण्डलीकरतकपोलाश्च कत्थन्ते यत्‌ “वयं यद्येतन्‌ नोदधरिष्याम, एते अमरिष्यन्‌ ,जगत्‌!

३७. “अहं तव पुरस्तान्न गायामि, नापि त्वां गापयामि

परेषां गानं श्रुत्वा स्वयं शिक्स्व संगीतं,

परन्तु संगीते गुरु मां सर्वत्र ख्यापयितुं त्वामनुमन्ये,

तदर्थ त्वं मह्यं प्रतिमासं देहि दक्षिणाम्‌”

इति वाक्यं श्रूयते

“अहं तव पुरस्ताच्चित्रस्य चित्रणं करोमि, नापि त्वया चित्रयामि परैश्चित्रितं चित्रं ष्ट्रा स्वयं रिक्षस्व चित्रकला,

परन्तु चित्रे गुरं मां सर्वत्र ख्यापयितुं त्वामनुमन्ये,

तदर्थ त्वं मह्यं प्रतिमासं देहि दक्षिणाम्‌”

इति वाक्यं नैव नेव श्रूयते

केषुचन विङ्वविद्यानिलयेषु कदाचित्‌-

“अहं संशोधनं शिक्षयामि नापि मम संशोधनप्रबन्धं दर्शयामि, परेषां संशोधनकरती पठित्वा स्वयं रिक्षस्व संशोधनं,

परन्तु संशोधने गुरुं मां सर्वत्र ख्यापयितुं त्वामनुमन्ये,

तदर्थ त्वं विङ्वविद्यानिलयाय देहि दक्षिणाम्‌” इति वाक्यं तु भूयो भूय? कर्णपटलं ताडयति + जगत्‌!

३८. जिज्ञासस्व सुविज्ञातविषयमात्रे तुण्ड कथमुद्धाटनीय इति; अथ चाविज्ञातविषयेषु तुण्डे कथं तालकं बन्द्धव्यमिति च; गुश्रूषस्व केवलं तेषां जनानां क्चांसि-येषां बोधः स्वबोधादधिकतरः। सुस्मूर्षस्व केवलं ताननुभवान्‌

ये जीवने किमपि साध्नोतुं प्रेरणां प्रायच्छन्‌

९०

जगद्वचनवादिनी

दिदक्षस्व तद्‌ वस्त्ववहितेन मनसा यत्र नम्नमुपविकाति किमपि वैशिष्ट्यं यदुत्कृष्टं, तु सगर्वं राराजते तद्‌ वैशिष्ट्यं यदपक्रष्टं ,जगत्‌!

३९. ठाम्बूकं (181) दृष्ठाऽवदं यत्‌

“‹त्वं जानासि डयनेन जायमानमानन्दम्‌। अहं तु जानामि। अहो! मेघान्तराले डयनेन स्वर्गमिवानुभवामि ।'”

ततश्चटकं दष्ट्राऽवदं यत्‌

ˆ “डयनं किल परमाद्धुतमनुभवं ददाति पूर्वमहमप्यडये। अद्यत्वे डिडयिषे। पयपोऽभवटयनानन्द?।""

ततो मम नयनपथे

गृध, बक, हंस, आल्वट्रास्‌ (^1021"058) पतिताः। इअटित्यात्मानं शिलाया अधस्तान्यगूहयम्‌ +जगत्‌ !

४०. पाठयितुमर्हा गुरव इति,

पाज्या शिष्या इति श्रुतमस्माभिः।

कदाचिच्चैतत्‌ कुतुकं पश्यामः केषुचन विक्वविद्यानिलयेषु - जानुभ्यामंहनं कर्तुमप्यक्षमा

धावनं शिक्षयितुम्‌ अहनिां योग्यं पीठमारुद्य

सानन्दं कबलीकुर्वन्ति फलानि +जगत्‌!

४९. प्रसिदधिमीप्सु किमपि किमपि विधत्स्व

सर्वेषां पुरस्तात्‌ लङ्स्व, शीषसिनं कुर, द्राङ्‌, आक्रोर, पदं वा सर्वत्र प्रक्षिप।

यद्येतैरपेकषितया मात्रया प्रसिद्धिर्न लभ्यते, आर्यद्राविडशब्दौ समादाय कोलाहलमारभस्व ,जगत्‌!

११

जगद्वचनवादिनी

४२. पनसोऽपि सानन्दं श्वसिति, पनसरोपिणोऽपि स्मितं कुर्वन्ति, पनसफलमानन्देनास्वादयन्तोऽपि जीवन्ति,

तेषां मध्ये पनसमधिकरत्य ग्रन्थानपि केचन रचयन्ति।

एवं सति

रुदतां शुष्कपनसशाखापदटरीमात्रपण्डितानाम्‌ अश्रु

किमर्थं परिमार्जयाम,

किं कथयाम तेषां विषये ये

° 'पनससंख्यापटीं ग्रन्थे कुर्वन्त्येते तस्मादेतेषामौदासीन्यहेतो पनसो मृत पनसो मृत,

पनसरोपिभि8 जलसेकेन पनसवृक्षं पोषयद्धिस्तं वर्धयद्धिश्च पनससंख्यापट्रीकारिभ्योऽवगन्तव्यं बह्वस्ति

इति वदन्तः सूक्ष्मं बुद्धिवेभवं प्रदिदर्शयिषमाणाश्च आरभट्या ताण्डवनृत्यमारभन्ते यत्‌, तत्‌ सहेऽहम्‌।

तेषां ताण्डवनृत्यमभिनन्दन्त8 केचन जना

यत्‌ सतालं गानं कुर्वन्ति तत्‌ संक्टाय मे जगत्‌!

४३. जगदिदं सदाऽपि जङ्खमं तु स्थावरम्‌। स्थावरमिवेतदूहित्वा यत्‌ क्रियते, यदपि चिन्त्यते

तदपि जङ्खमम्‌।

यदवलम्बनेनैतत्‌ सर्वं क्रियते चिन्त्यते

तत्‌ स्थावरं वा जङ्खमं वेति विचारणायां सत्याम्‌

उद्धवति तत्त्वशास्त्रम्‌ +जगत्‌!

४४. रटन्तु काका वा घूुर्वन्तु घूका वा भषन्तु एवानो वा। कियच्चिरं तेषां वाक्यानि श्रूयन्तां , वैरस्यमनुभूयतां,

९२

जगद्वचनवादिनी

तदुक्तान्यपरेभ्यो ज्ञाप्यन्तामसमाधानं चोत्पाद्यताम्‌ 2 आकर्ण्यन्तां चंकरृतानि चटकानामपि, श्ुकानामपि-

ये? क्रियते सरस्वत्युपासना,

येश्च विधीयतेऽन्येषां जीविनामवहेलना, नाप्यपमानना+जगत्‌!

४५. यदि विदधासि परोपकारं

स्वभुजास्फालनं कुरुष्व, मर्दलं वादय, भेरीं ताडय, नात्र कोऽपि दोष।

परेषां त्वत्तो यदि किच्चित्‌ प्रयोजनं,

किं फलं कण्ठेकृतैरन्यरचितै,

त्वया तुण्डान्तिश्सार्यमाणेश्च सुभाषिते जगत्‌!

४६. अवधत्स्व जिह्धवायाश्चलनेषु तत्र-

यत्र सम्यगधीतग्रन्थानां विदुषां समवाय अस्ति, यत्र व्यवहारज्ञानां बुद्धिमत्तराणां व्रनस्तिति, विशेषतस्तत्र, यत्र-

ज्ञातां वार्तां सलोपागमादेशं प्रचिकारयिषतां पत्रिकासंपादकानां वृन्दम्‌ उत्कर्णं भवति जगत्‌!

४७.वादविवादव्याघ्रभूयिष्टे विपश्चित्कानने गास्त्रनखरानुपयुङक,

विविधवस्तुसूत्रोते पटे ,नैकदघ्राभिः लेखनकृर्चिकाभि गद्यपद्यनाटकचम्पूस्तोत्रवर्णचित्राणि चित्रयसि, संगोधनरिलाप्रतिमां टङ्खयसि च।

सत्यपीत्थलक्षणे सामर्थ्ये

° .संस्करेतभाषया किमप्यरचयन्तः,

१३

जगद्वचनवादिनी

केवलं संस्कृतेतरया भाषया संस्करृतविषयकान्‌ ग्रन्थान्‌ रचयन्तो विदेशीया एव हृदि दधति संस्कृतं पुनर्भारतीया” इति मस्तिष्कहीनानां मूर्खतमस्तुत्यानां दुभषिणं श्रुत्वा

किमर्थं जोषमुपविशसि ? जगत्‌!

४८. यदि-

तन्न दोषाय यल्िलगयिषसि मयूरे गर्दभस्य पुच्छम्‌, तन्नापराधाय कल्पते यद्‌ युयोजयिषसि कोकिले काकस्य कन्धराम्‌, तन्न दोषलेशं जनयति

यत्‌ सिसृक्षसि वेतण्डे वराहस्य वदनम्‌ ;

तच्च प्रमादाय यद्‌ बिभन्त्ससि संस्कृतेन रचिते ग्रन्थे इङीषूभाषया विरचितां पीठिकां जगत्‌!

४९. कल्मषं सम्मार्जय+तत एव गृहभित्तिषु चित्राणि चित्रय,+ तत एव रङ्खवद्टीं रचय,

कल्मषमार्जनात्‌ प्राक्‌ चित्रितानि चित्राणि स्थेष्ठानि।

यदि सम्मार्जनी नास्ति,स्वयं निर्माहि सम्मार्जनीम्‌।

यदि सम्मार्जनीं निमतुं जानासि,

गत्वाऽऽपणं सम्मार्जनीं क्रीणीष्व , जगत्‌!

५०. कियञच्चिरमभिदधासि पूतिगन्धिनं शवमधिकृत्य-

° 'परिमलप्रसूः पुष्पमज्जरीयम्‌ *` इति ?

प्रदरं निखन, ठावं निधेहि, तैलं सिञ्च, ज्वलनं प्रज्वालय। धगधगायमानेन ज्वलनेन दह्यतां शव तत8-

पुष्पतरं रोपय, गच्छता कालेन आघ्राहि परिमलं,

“पुष्पाणि सुगन्धीनि इति घोषय, जगत्‌!

१४

जगद्वचनवादिनी

५१. पीड्तमस्तु कर्णकठोरो मनुष्याणां कृते यत्‌ स्यात्‌ सरसाय संलापाय गजस्य कृते। नर्दनं मास्तु कर्णरसायनं मनुष्याणां कृते

यत्‌ स्यात्‌ योगक्षेमविचारणाये वृषभस्य कृते। गर्जनमस्तु हृदयकम्पक्रन्मनुष्याणां कृते,

यत्‌ स्यात्‌ संगीतं सिंहस्य कृते, जगत्‌!

५२. “सुवदनेन सुघटना, दुर्वदनेन दुर्घटना भवति, तस्माचिन्तयेद्रद्गां पुन? कच्चरपरीवाहम्‌” , इत्यादिकां

पुन पुनरुपदिश्यमानां देनां

कियच्चिरं श्रावं श्रावं श्रवणशूलमनुभवसि ?

पीयूषकलशोऽपि ध्याते, सर्पं नापङ्य किं यो विषं वमति छुरिकया भिद्यमाने देहेऽपि ऊहिते,

हारं न्यशामय किं य? कोमलः सुगन्धी कण्ठे आसग्जितश्च ? “सुष्टुचिन्तनेन सुष्टु संभवति, दुष्ट चिन्तनेन दुष्ट संभवति” इतीदं तु केवलं प्रायोवादो तु दर्शनम्‌ ,जगत्‌!

५३. हे इण्डिया राषट्रस्थे, यूनिवर्सिटि!

नाहं विवक्षामि “(त्वयि निवासिन्या$ सरस्वत्या मुखारविन्दान्न निश्सरति मन्दहासः कदापि इति।

नाहं विवक्षामि “(त्वयि निवसतां पिकानां कण्ठान्न नि्सरति कुूध्वनि? कदाऽपि” इति।

एतत्तु विवक्षामि ““कदाचित्‌ त्वद्धवनस्थान्‌ धृतसरस्वतीभक्तवेषान्‌ सरस्वतीद्रोहिणो दृष्ट्रा, काकानां गृहेषु सम्मार्जनकर्म कुर्वाणान्‌ पिकाश्च दृष्ट्रा नयनाभ्यामुत्सृजामि ोकाश्रु'* इति , जगत्‌!

९५

जगद्वचनवादिनी

५४. यदा ज्ञानस्य प्रस्थानस्थलं तवैव मस्तिष्कं

प्राप्यमपि स्थलं तवैव मस्तिष्कं,

साध्नोषि त्वं बहूनि साध्यानि।

तव मस्तिष्कं पाडयित्वा,

(पादाभ्यां ताडयित्वा पाड लत्ताप्रहारे इति मया सृष्टो धातु) मस्तिष्कवतां परेषां जनानां पादं यावत्‌ संवाहयसि तावत्‌, आदिण्डसे ज्ञानशन्ये जगति, जगत्‌!

५५. पत्रेषु गलितेषु+नूतनेषु पत्रेषु्धूतेषु,

कथज्चिद्‌ विस्मर्यते पूर्वपत्रमरणदुश्वम्‌ परन्तु प्राप्तडयनशक्तिषु पक्षिपोतेषु गतेषु ,

क्रमरस्तपिित्रोरपि गतयो,

शून्यं नीडं दर्श दर कथं जीव्यतां वृद्धेन वृक्षेण जगत्‌! ५६. परिचितैस्तरिचतुरे8 सुबन्तेस्तिडन्तैश्च

विचारघनं कं ग्रन्थं रिरचयिषसि त्वम्‌ ?

त्रिचतुरैरगूत्मेः कुनरवकषस्तृणेश्व

सुरभिनिबिडं नन्दनवनं चिकीर्षसि किम्‌ ? ,जगत्‌!

५७. गिर आरुह्य गन्धमूषिको यदि गजति,

निन्यो जन8 आरोहयमाणः।

सिहासनमारुद्य गर्दभो यदि सिंहति,

निन्यो जन? यस्तृष्णीशीलः।

परेण जनेन ग्रन्थान्‌ रचयन्‌ तान्‌ स्वक्रतान्‌ यदि कोऽपि घोषयति, निन्द्यो जन स्वयं ग्रन्थान्‌ रचयित्वा

रचयितृत्वेन परस्य नाम लिखति,+जगत्‌!

१६

जगद्वचनवादिनी

५८. साधनेषु निमज्जत उत्करृष्टफलान्यवचिन्वतो जनान्‌ निशाम्य आश्वर्योदधौो निमञ्चेयं वा ? असूयोदधौ निमज्ञेयं वा ? फलप्रदातारं स्तरमप्राप्य त्यक्तसाधनमात्मानं दृष्ट्रा

शोकोदधौ निमञ्रेयं वा ? कोपोदधौ निमञ्चेयं वा ? ,जगत्‌!

५९. मम जीवनक्लेगादधिकतर? क्लेशोऽस्त्यन्येषां जनानाम्‌ असख्रवन्ममाश्रु यदा कदा ,तेषां तु प्रतिदिनमश्रुधारा।

ते मन्दं मन्दमुद्धातिनि पथि गत्वा वृक्षमारुह्य फलान्यस्वादन्त। अहं पुन सोपानै पुष्पैश्च समुपेते पथि

पदमेकमपि निधातुं शक्नोमि, तङ्कामि चाधुनाऽपि, जगत्‌!

६०. तनुरशुद्धा वज्चनाजन्यधनक्रीताहा रपोषितत्वाद्धेतो8, वागङुद्धा सभ्यताया अभावाद्धेतो8,मनश्वाद्द्धं दुर्विचाराद्धेतो$। इत्थंभूतलक्षणान्‌ जनान्‌ ये चिन्वन्त्यभिचयनस्य(716611010)* समये ते शोच्यास्तनुवाङ्खनसामञ्ुद्धत्वा द्धेतो, जगत्‌!

६१. अवमस्त्वमसक्रदेतावन्तं कालं विषं सर्वत्र,

असृजश्च त्वमसकरदेतावन्तं कालं शवान सर्वत्र|

सिञ्च त्वं सकरदधुना पीयूषं सर्वत्र,

वीक्षस्व त्वं सक्रदधुना विकसितानि सुमानि सर्वत्र, आजिषघ्र त्वं सकरदधुना सुमनिश्सृतं सुगन्धं सर्वत्र, जगत्‌! ६२. हे योगिब्रुव! त्वमुपदिशसि जनतां

° “भूषणेषु संपत्सु देहसौन्दर्ये व्यामोहं त्यज, कस्मिंश्चिदिने एतत्सर्वं त्यक्त्वा कुत्रापि यास्यसि” इति। यदि -भूषणे प्रीतिमत्यः संपद्धिरनुभूतसुखा,

१.अभिचयनम्‌= ६1661101. निवचिनमिति शब्दस्य निष्पत्ति सद्दिग्धेति कृत्वा नवीनोऽयं शब्द कृतः।

१७

जगद्वचनवादिनी

सौन्दर्ये लग्नहृदया$ जना नाभविष्यन्‌ केभ्य? त्वमुपादेक्ष्य ? अवधत्स्व -कस्मिंश्चिदिने उपदेशप्रवचनादिकानि त्यक्त्वा त्वमपि कुत्रापि यास्यसि,जगत्‌!

६३. ““चक्षुयोगिनाभ्यस्तेन नयनदोषो नश्यति” इति कथय दत्तधनेष्वभ्यस्तचक्र्योगेषु अविनष्टनयनदोषेषु जनेषु परच्छत्सु, ° “चक्चुषोर्दोषस्य चक्चुयोगिन निवारणं मुख्यम्‌

आत्मदर्शनं तु सुखाय'इति जत्प। ते मूर्खा जोषमुपविशन्ति ˆ “दन्तयोगेनाभ्यस्तेन विनष्टानां दन्तानां स्थले

नवीना दन्ता जायन्ते '* इति वद

दत्तधनेष्वभ्यस्तदन्तयोगेषु जनेष्वजातनवीनदन्तेषु परच्छत्सु,

° नवीनानां दन्तानां दन्तयोगेनोत्पत्तिर्न मुख्या

आत्मदर्शनं तु श्रेयसे” इति शंस ते बालिशा क्रुध्यन्ति। “व्यवहारयोगेनाभ्यस्तेन

व्यावहारिक्य समस्या नक्यन्ति"” इति ब्रूहि दत्तधनेष्वभ्यस्तव्यवहारयोगेषु

अविनष्टव्यावहारिकसमस्याकेषु जनेषु पृच्छत्सु,

° °व्यावहारिकीणां समस्यानां व्यवहारयोगेनापनयनं मुख्यम्‌ आत्मदर्नं तु परमानन्दाय” इति लप। ते मूढास्त्वां महिं मन्यन्ते सिध्यतु मा वा सिद्ध्यतु आत्मदर्शनयोगोऽपरेषां जनानां , तव तु धनयोगो बाढं सेत्स्यति+जगत्‌!

६४. केचन स्यो्रीट्लाङ्खून्‌भक्तोत्तमा ° “मम्मी "`, ^“उ्याडी' इति द्रयो$ शब्दयोः द्रेषबाणानस्यन्तः सनातनं धर्म रिरक्षिषन्तश्व

९१८

जगद्वचनवादिनी

“अम्ब ! कम्‌ हियर्‌*, ° “तात ! कम्‌ हियर्‌”” इति वाक्याभ्यां संप्रदायं पूतं भवन्तं मन्यन्ते !

इङीषभाषाया? छब्देषु वाक्येषु साहित्येषु निमग्ना सन्त एते तयेव भाषया लपन्तो व्यवहरन्तो ग्रन्थान्‌ रिरचयिषन्तश्व, ठाब्दद्यमात्रोज्चाटनमन्त्रजपेन संप्रदायश्रद्धाडिण्डिमं नादयन्ति, जगत्‌!

६५. सर्वेऽपि कूजन्तः पक्षिणो कोकिला, केचित्‌ काका। सर्वेऽपि कवयो वाल्मीकयः?, केचित्‌ कथच्चिद्योजितरब्दाः। सर्वेऽप्यध्यापका पतञ्जलय, केचिदन्यकरृतरिप्पणीवमनविज्ञा। सर्वेऽपि वैयाकरणा चारुदेवशास्तरिण, केचिद्‌ वेयाकरणखसूचयः। सर्वेऽपि कवयो भट्श्रीमथुरानाथशास्त्रिण?, केचिञ्चोरकवयः। सवण्यपि संलग्नसुभाषिताभिधानानि पद्यानि सुभाषितानि, कतिचिदविवेकिजनमात्रपरियाणि विवेकिजनचुगुप्साधायकानि दुभषितमात्राणि, जगत्‌!

६६. अवधीरय्य निज -मस्तिष्कगुरुम्‌ ,अवगणय्य ग्रन्थगुरुम्‌, अवज्ञाय व्यवहारगुरु,

सदाऽपि पर-मस्तिष्कगुरौ दासत्वं दिदर्शयिषुभिजनि समग्रमिदं भूमण्डलं गुरूभूतम्‌, जगत्‌!

६७. “-स्यान्क्रीट्‌ लाङ्कृज्‌ परमोतकृष्टम्‌" इति सदाऽपि किल युष्माकं कण्ठकुहरादुद्रच्छति वाग्धारा |

किमर्थ यूयं संस्कृतग्रन्थानां पीठिकां “डिफ़रेण्ट्‌ "भाषया रचयथ ? संस्करेतभाषोद्याने पीठिकायोग्यानि

सुबन्तानि तिडन्तानि कृदन्तानि पदानि

सन्धिसमासादिकानि वाक्यानि पुष्यन्ति किम्‌ ? "इति

जगद्वचनवादिनी

स्यान्स्रीट्प्रोफेसरकान्‌ अन्ये जना? पृच्छयासु। स्यान्स्रीट्प्रोफेसरकाश्व डिफ़रेण्ट्‌ ' भाषारचितपीठिकायोजनरूपं कापेयं त्यज्यासु, जगत्‌!

६८. अकृतनराधमपादसं वाहना , अविहितानर्हस्तुतय, अविरचितनीचगप्रोत्साहा, अनिगृहिताषाढभूत्यपराधा, अदरितमिथ्यासार्वज्या, अनपमानितविशेषज्ञा, अप्रयतितस्वभुजास्फालना, अनुदासितपरसिद्धयश्वचार्यमान्या, स्वयं जीवन्ति, अपरानपि जीवयन्ति, जगत्‌!

६९. वक्तव्यं पिपीलिका गर्विणीति, नाधिक्षेप्तव्यं सा गाढदम्भेति, निन्दितव्यं सा सदुरहङ्कारेति,

यदि वदति सा दृष्टगजा-

° “कियत्‌ कष्टं सोढवता भाव्यं गजेन पिपासुना पानकाले, अतीवभारां शुण्डाम्‌ उद्धरता ;साहाय्यकं करवाणि वा-

शुण्डया क्रियमाणे जलस्य चूषणे, तस्या उत्थापने,

तस्यास्तुण्डे स्थापने, जलस्य तुण्डान्तशप्रक्षेपे * इति।

किन्तु ज्ञातव्यं सा वराकी निबिडमौढयेति, जगत्‌!

७०. 'पूर्वतरैस्तत्‌ साधितं स्यादहन्त्वेतत्‌ साधयामि"

इति चिन्तयित्वा प्रतिष्टठमानै्जनि8

किमपि साध्यते , आसाद्यते, दीयते, जीयते च। “अस्मत्पूर्वजैरेव सर्वं साधितं, मया साधयितुं किमपि नावशिष्टम्‌ इति ्रुवाणर्जनि8, अवस्फोट्यते, जुम्भ्यते, ययते, सुप्यते च, जगत्‌!

७९. कश्चन कूपमण्डूकोऽपश्यद्‌ व्योम्नि डयमानं विहायसम्‌ अघघत्‌ अकथयच्च सोत्प्रासं -

जगद्वचनवादिनी

° “विहायसा गच्छन्‌ अनेकगिरिनदीदरीकाननपत्तनानि पश्यन्‌ संद्ष्टविविधवर्णोऽनुभूतविचित्रकष्टसुखश्च सन्‌ विरचितनानानवीनविषयकसंस्कृतग्रन्थो वराकोऽयं -

संस्कृतग्रन्थ पीठिकां संस्करृतभाषयेव रचयित्वा योजयति।

केवलमेतदेव, अपि तु -इङ्कीषभाषया कमपि ग्रन्थं रिरचयिषति, धिगिमं कूपमण्डूकम्‌* इति जगत्‌!

७२. कस्य जनस्य पुरस्तात्‌ कथयानि हृदुत्थां समस्याम्‌ ? अपरेण श्रावितायां समस्यायां, परिदियते किं समस्या ? मय्येव समस्याहेतुत्वमुद्धाव्य जन उपदेशधारां वर्षति वा ? हास्यास्पदं किमपि स्वास्याच्नि्सारयति वा ?

श्रुते परोक्ते परिहारे -

“इदं ममेवाभास्यत्‌, यद्यहं सावधानमचिन्तयिष्यम्‌

इति विचारो मयि जन्म प्राप्रोति वा ?

“एतेन सूचितात्‌ परिहाराद्‌ वरतर8 परीहारो भात्यधुना मे किमर्थं हटात्‌ तमुपासर्पम्‌" इति सङ्कटं जायते वा ? कथितसमस्यापरिहारोऽन्यो जन

“लघुतरां समस्यां परिहर्तुमरक्नुवन्नेष मामूपासर्पत्‌ समस्यापरिहाराभ्युपायसंसूचनेन अहमेवेतम्‌ उदधरम्‌'

इति पटहं सर्वत्र वादयन्‌

किमर्थं महाप्रमादमकरवं यत्‌ पटहवादकं तसुपासर्पम्‌'

इति मदीयं मौर्ख्य प्रत्यभिज्ञाय , मां करां करोति वा ? अश्रावितायां समस्यायाम्‌, अनिवारिते दौभग्यि समुपनते “यदि मम समस्यामेतस्य पुरस्तादकथयिष्यं

२९

जगद्वचनवादिनी

परमोत्कृष्टं परिहाराभ्युपायमेष असूचयिष्यत्‌। स्वाभिमानेन विच्चितोपक्रमो दूयेऽहमधुना'

इति पश्चात्तापेन मम हृदयं द्रवीभविष्यति वा ?, मम समस्यां कण्टकुहरान्नि्ारयाणि वा ? आहोखित्‌ कण्टप्रदरे निखनानि वा जगत्‌!

७३. अस्मिन्‌ कोटौ तिष्ठति

तस्मिनपि कोटौ विश्राम्यति दोला, या-

नुद्यते तत इतः केनापि जनेन, य$-

दोलायामेवोपविकन्‌ नुदति, आहोख्िद्‌ बहिस्तिष्ठन्‌ प्रेरयति। एतस्मिन्‌ विषये लगति,

तस्मिन्नपि विषये चिरं तिष्ठति मन।

मन इदं नोद्यते तत इतः? कन्दुक इव -एतत्‌ स्पष्टम्‌।

केन सत्त्वेन ? इत्येतत्तु स्पष्टम्‌, जगत्‌!

७४.ˆ.फलमन्तुं दन्ता? किमावर्यका ?

पथि चलितुं पादा किमावर्यका? ?

पुष्पं घ्रातुं नासिका किमावक्यकी ?

खे उयितुं पक्षौ किमावक्यकौ ?* इति प्रच्छन्ति ते ये- “‹ शिक्षणमन्त्री भवितुं

विद्या किमावश्यकी ? इति पृच्छन्ति , जगत्‌!

७५. सत्यामपि सस्य्यामलायां भूमौ

“सर्वत्र मरुभूमयो दृश्यन्ते कुत्रापि जलकणिका” इति किमर्थमाक्रोशानि ?

भ्रमराकर्षणविचक्षणं पुष्पोद्यानं परितो भ्रमन्‌

२२९

जगद्वचनवादिनी

“सर्वत्र कण्टका करतलं तुदन्ति क्वाप्यस्ति सुगन्ध" इति किमर्थमारभटीं रचयानि %, जगत्‌!

७६. सर्वत्रापि सर्वदापि ब्रह्माण्डे

अहमिति स्फुरत्यनुभव8। तस्मात्‌-

देशकालनिरपेक्षोऽयम्‌।

देहप्रमितोऽहमनुभवोऽहङ्कारः

ब्रह्माण्डव्याप्यहमनुभव आत्मा।

अहङ्कारानुभवाय नावर्यकं ध्यानं तस्य स्फुटमनुभूयमानत्वात्‌। आत्मज्ञानाय परमावश्यकं ध्यानं तस्यास्फुटत्वात्‌।

इदमेव ध्यानं महायोगो , जगत्‌!

७७. “अमूष्य कवेर्जीवितसमये भारतमेतत्स्वरूपमासीत्‌', “अमुष्य विदुषो जीवनकाले व्यराजन्तामूनि वस्तूनि, इत्येवं कियच्चिरं संशोधनं करवाणि ?

मयाऽपि विरचयिष्यमाणान्‌ ग्रन्थानधिकरत्य भाविनः संशोधका- “एतेषु ग्रन्थेषु भारतमित्थङ्कारं प्रतिबिम्बति '

इति यथा संशोधनं कुर्युस्तथा प्रतिबिम्बित-मज्जीवितकालिक-भारतानां कृतीनां रचनां कदाऽहमारप्स्ये ? , जगत्‌!

७८. उन्नतं प्रदेशं वृक्षशखापर्वताधित्यकादिकमारुद्य

नदीं वीक्षस्व येन तत्रत्या वक्रता वीक्ष्यते

नद्यामेव स्थित्वा यदधिनदि ज्ञायते तद्‌ भिन्नम्‌

तनोर्बहिर्गत्वा तनुं परीक्षस्व येन तत्स्वरूपं गुणदोषोभययुक्‌ स्पष्टायते तन्वामेव स्थित्वा यदधितनु ज्ञायते तद्‌ भिन्नम्‌। , जगत्‌!

२३

जगद्वचनवादिनी

७९. ““कमपि शाकम्‌ अक्क्रेतुर्जनस्य आपणे

विराजमानेन “शाकापण” इति फलकेन किम्‌ ?” इति पृच्छ। “किमपि चित्रम्‌ अचित्रयितुर्जनस्य

चित्रकार इति बिरुदेन किम्‌ ? इति पृच्छ।

किन्तु “किमपि संशोधनम्‌ अकर्तर्जनस्य

प्रोफेसर्‌ इति विरुदेन किम्‌ ?” इति मा पृच्छ-

यस्य वेतनेऽतितमां वृद्धिर्भवति तेन विरुदेन, जगत्‌!

८०.अन्येन नृत्यं कारयित्वा

“अहमेवानृत्यम्‌ इति गप्पं कर्तुं शक्यते।

अन्येन प्रवचनं दापयित्वा

“अहमेव प्रावोचम्‌* इति गणं कर्तुं ठक्यते।

अन्यं नभसि डाययित्वा

“अहमेवाडय' इति गप्पं कर्तुं ठक्यते।

किन्तु अन्येन ग्रन्थं रचयित्वा

ˆअहमेवारचयम्‌' इति गप्पं कर्तु बाढं शक्यते, जगत्‌!

८१.एकत्र सर्पाद्‌ बिभ्यन्‌ कोऽपि पक्षी स्वपोतान्‌ रिरक्षिषति। अन्यत्र मयूरः प्रसारितपिज्छचामरो मण्डलरासकं कलयति। युगपत्‌ कत्रचिदातद् कुत्रचिदानन्दश्च |

मम नेत्रे पयता शक्तिर्भूयाद्‌ द्रष्टुम्‌, अश्रु प्रवाहयितुं च।

मम हृदयकमले पया शक्तिर्भूयात्‌

केवलं प्राणमकरन्दं सर्वाण्यङ्गानि नोदितुम्‌ अपि तु विकसितुं च। सर्वेषु वर्णेषु सृज्यासं ममास्तित्वं

सर्वे वर्णा मयि सूज्यासु स्वास्तित्वं , जगत्‌!

२४

जगद्वचनवादिनी

८२.येषां जनानां वसुधैव कुटुम्बकं ते कदाचित्‌- स्वीये कुटुम्बे विषं वमन्ति,

परेषां कुटुम्बे पीयूषं प्रवाहयन्ति,

स्वीये गृहे भषन्त्यग्ं ,

परगेषु लाङ्कलं चालयन्ति, जगत्‌!

८३.यस्मिन्‌ दिने

अधिकारसिंहासने राजमानैर्जने

परजनरचितं भाषणं नीरसेन कदाचिदशुद्धेन चोञ्चारणेन पठ्यते सप्रयोजनकर्मलेशहीनेरमुढेश्च श्रूयते

तद्‌ दिनं विद्धि अनुण्ितस्वातन्त्योत्सवं , जगत्‌!

८४.गास्त्रग्रना नृत्यन्ति जिह्वाग्रे मम,

कोषवाक्यानि क्रीडन्ति वदने मम,

साहित्यरचना गायन्ति कण्ठे मम,

एतत्‌ सर्वं परैर्दत्ता भिक्षा।

स्वयं मयि पिपक्षति तु- धान्यानि धावन्ति शाकानि पलायन्ते, स्तब्धो भवति हस्तः, कण्ठः शुष्यति, मुखं दीनम्लानं भवति दर्वी तु मां तिताडयिषति , जगत्‌!

८५.०.अन्येन जनेन निर्मापितं तद्‌ गृहं यत्‌ परमाद्धुतम्‌। अपरेण जनेन कारितमिदं सदनं यननयनमनोहरम्‌। "” इति व्यर्थेन प्रलपेनेतावन्तं कालमनैषी8।

° मयैव निर्मितमिदं गृहं यदतीव सुन्दरं -

यस्य निमणि एतावान्‌ क्लेश सोढो मया ""

इति सगर्वं कदा घोषयिष्यसि ?, जगत्‌!

२५

जगद्वचनवादिनी

८६. केचन जना किल परमविचित्रा ये

स्वोपकारसाहसरीं कृतवतो जनान्‌

आगर्भशात्रून्‌ मन्यमानास्तेभ्यः क्रुध्यन्ति गर्जन्ति रक्तनेत्रा। विरचितस्वापमानानां जनानां

पादौ संवाहयन्ति,चाटुरातानि गायन्ति , जगत्‌!

८७.असत्यं तदा श्रद्धेयं यदा सत्यमश्रद्धेयम्‌।

अज्ञा सज्ञा इव तदा नटन्ति यदा सुज्ञानामज्ञत्वं ख्याप्यते। पिराचा देवा इव तदाभिनयन्ति यदा देवा? इलाघन्ते पिशाचान्‌। अस्तव्यस्ततैव सुव्यवस्थेति घुष्यते

यदा सङ्टना सङ्दनत्वेन परिवर्त्यते, जगत्‌!

८८.कोकिला? कूजन्ति, नीलकण्ठा नृत्यन्ति,

चच्चुसूचयश्च नीडं निर्मान्ति।

पुष्पाणि स्मयन्ते, षटदा गुञ्जन्ति, हरिणाश्च शान्तास्तरृणं चरन्ति ध्यानयोगे मग्नानि कतिचन मस्तिष्काणि।

मेघविदघ्रं विना दीधितयः पृथ्व्यां प्रसरन्ति।

येनाहं सप्रमोदं निमच्रामि-

सरस्वत्या दन्तपडर्निस्सरन्त्यां +माज्व पावयन्त्यां प्रकाशधारायाम्‌। परन्त्विदं सर्वं कस्माच्चिद्‌ विर्वविद्यानिलयाद्‌ बहि , जगत्‌!

८९.हे काक !

यत्‌ त्वया हठापेक्षा()ला8१) कृता पिकराज्ये पटाभिषेकाय- तन्न कल्पते तवापराधाय।

तवाशा यत्‌ फलिता तत्‌

अ-स्वाभिमानगन्धानामविवेकिनां पिकानां किल चेष्टितेन, जगत्‌!

२६

जगद्वचनवादिनी

९०.अवधाय दुर्गतानपि निगूहिताश्रुकान्‌ स्मितभाषिणश्च समस्योदधिमग्नानप्यप्रकाितदुष्वान्‌ हास्यकारिणश्च ; मम चक्चुषोरश्रुधाराममार्जयं

घघनं (दर्प) प्रारभे, जगत्‌!

९१. गव्यसिं धनराहिना

नापि दभ्यासं परम्परानुगतस्य कर्मणोऽनुष्ानेन। दृश्यासं दृढां सम्मार्जनीं, तां ग्रहीषीय, तया मनसि वर्तमानं मालिन्यरारिं सम्मार्ज्यासम्‌, जगत्‌!

९२.सश्द्धं विहितशास्त्राध्ययनानां केषाञ्चन

“श्रतेदत्रः प्रवचने? पठितस्तिचतुरे8 सूत्र

कण्ठेकृते रङ्ुलीगणनीयैश्च भष्येरारब्धेऽध्यापने किं नेदं वञ्चना इति चिन्ता

प्रतिभावतां केषाच्चित्‌

ˆ मत्परिचितेर्दितरः सुबन्तेस्तिचतुरेस्तिडन्तेरङ्कलीगणनीयश्च कृदन्ते कं महाग्रन्थं रचयेयम्‌ ?” इति चिन्ता।

अन्येषां तु गर्विष्ठानामिष्टकाया अपि ज्ञानेन हीनानां

°राजसौधं निर्मित्सव के मयेदानीं शिक्षणीया इति चिन्ता, जगत्‌!

९३.मम गृहेऽहं वसामि'इति साभिमानं कथनं कथं नाम दोषाय ? मम गृहान्त? सन्धिं कृत्वा प्रविष्टायां द्ुदुन्दर्या,

तां पलाययितुं मया क्रियमाणः प्रयत्न कथं नाम दोषाय ? अनुमतिं विना मम गृहान्तर्हठादाक्रम्य मालिन्यं प्रसारयितो नीचान्‌ यदहं विरुणध्मि तत्‌ कथं नाम दोषाय ?, जगत्‌!

२८७

जगद्वचनवादिनी

९४. “दूरादेव विषं निष्टीवसि, हे सर्पं ! येनाहं म्रिये -

ततो मम बन्धवो रुदन्ति, मम सन्तानश्च भवत्यनाथः।

“नाहं दशामि' इति गप्पमपि जल्पसि, किं तव नास्त्यन्तश्ाक्षी ?" इति रिणोरिव क्रन्दनेन, सावेशयाऽऽरभय्या वा किम्‌ ?

गृहाण दण्डं, ताडय घातय सर्पम्‌, जगत्‌!

९५. पूर्वं तवाश्रुणाऽरऽ्र भूतलं जना अपश्यन्‌, ये-

संप्रति पश्यन्तु कर्मणि लग्नौ तव हस्तौ पादौ च।

संप्रति श्वुण्वन्तु तव वचनानि,

दारयन्तां तव गज्निन श्रुतिपुटानि,

संप्रति कर्मसिदधया विस्मायय विश्वं ,

अश्रुखावकं चक्चर्न तव साहाय्याय।

कार्यकारिणौ हस्तौ पादौ, आवश्यकभाषणपरा जिह्वा - तवोपकाराय, जगत्‌!

९६.८ पूर्व भूमण्डले सौभाम्यमासीदित्यश्रुणवाम

अधुना सर्वत्रापि दौभग्यिमित्थंप्रकारकं यत्‌-

अवटेषु स्खलन्ति जना, भषका भषन्ति, सविषमन्नमद्यते, वानां पूतिगन्धस्ताडयति नासां, कण्टकिद्रुमास्तुदन्ति देहम्‌” इति पञ्चेद्धियशक्तिशून्या आरभटीमारभन्ते द्राङुन्ति च~ विराजमानेष्वप्युन्नतेषु तालवृक्षेषु, कूजत्स्वपि कोकिलेषु, आमन्त्रयत्स्वपि मधुरेषु फलेषु, विकसितेष्वपि भ्रमरनिबिडेषु सुमनश्सु, सतीष्वपि तरृणशय्यासु, जगत्‌!

९७. कस्मिंश्चिननगरे एकस्मिन्‌ पुरुषे धनं चोरयति, ° “तस्मिन्नगरे सन्त्यचोरा” इत्यभिदधानि वा ?

२८

जगद्वचनवादिनी

कस्मिंश्चिन्नगरे एकस्मिन्‌ पुरुषे अत्पविद्यावति गर्विष्ठे, “तस्मिन्नगरे सन्त्यगर्विष्ठा"” इत्यभिदधानि वा ?

कस्मिंश्चिन्नगरे एकस्मिन्‌ पुरुषे परैर््न्थं रचयित्वा

तं ग्रन्थं स्वविरचितत्वेन ख्यापयति, ‹(तस्मिनगरे

सन्त्यग्रन्थरचयितुकीर्तिचोरा"” इत्यभिदधानि वा ?, जगत्‌!

९८. लञ्रालव रिव? कृत्राप्यात्मानं निगूहन्ते

जनै साकं मिलने विकाङुन्ते तद्त्‌ - सांप्रतिकसंस्करेतसाम्राज्यप्रजाभिर्मिलने

केचन सुबन्तशब्दा केचन तिडन्तशब्दा केचन प्रत्ययाश्च ल्या विकाङ्न्ते।

तान्‌ सधैर्यान्‌ क्रियास्म, तै8 साकं क्रीड्यास्म च, जगत्‌!

९९. लोके सदाऽपि सर्वं सिद्ध्यति वाचेति मा वद कदाचित्‌ कतिचित्‌ साध्यानि वाच॑यमत्वेन सिद्ध्यन्ति। लोके सदाऽपि सर्वं सिद्ध्यति वाचंयमत्वेनेति मा वद कदाचित्‌ कतिचित्‌ साध्यानि वाचा सिद्ध्यन्ति। वाचंयमत्वमवलम्बस्व यदि मन्यसे मौनमावश्यकं

वाचा विचृम्भस्व यदि मन्यसे व्याहारमावर्यकं , जगत्‌!

१००. श्रुतनानागानोऽपि “अहमपि गेयासम्‌' इत्येकवारमप्याराम्‌ अकुर्वाणो जनः प्राणिति किम्‌ ? दृष्टानेकगृहोऽपि “अहमपि गृहं निर्मायासम्‌'

इत्येकवारमप्याराम्‌ अकुर्वाणो जनः प्राणिति किम्‌ ? आस्वादितनानासंस्करृतकाव्योऽपि “अहमपि रचयिषीय काव्यम्‌ इत्येकवारमप्याशाम्‌ अकुर्वाणो जनः प्राणिति किम्‌ ?,जगत्‌!

२९

जगद्वचनवादिनी

१०१. हे पञ्जीपण्डित।

° ‹-ग्रामेऽस्मिन्‌ कति कृषीवला? सन्ति ?

कति क्षेत्राणि ब्रीहिभराणि ?

कत्याम्रवृक्षा- इत्यादिके ज्ञाने सत्यपि,

“कथं हलस्याकर्षणं कृत्वा व्रीहिं रोपयित्वा तण्डुलं जनताये दद्याम्‌ ?- इति, ˆकथमाम्रबीजमुस्वा तरून्‌ वर्धयित्वा

फलानि जनतायै वितरेयम्‌ ?- इति

नाहं जानामि"

इति किमर्थं शोचसि, किमर्थं रोदिषि ?

“° तण्डुलदाननिष्ठानाम्‌ आम्रफलवितरणनिरतानां चापेक्षया पञ्जीपण्डिताः प्रशास्यतरा९””

इति मर्दलं वादयन्तो ग्रामेऽस्मिन्‌ जाग्रत्येव ,जगत्‌!

१०२. “अमुषिन्‌ स्थाने प्राप्ते, जनतोद्धारमनेन क्रमेण करिष्यामि; अमुष्यां पदव्यां लब्धायाम्‌, एतं धर्ममेवमनुष्टास्यामि; अमुष्िंश्च वस्तुनि मत्करस्थे,

मदीयं शोकाश्चु परमानन्दबाप्पत्वेन परिवर्तयिष्यामि'

इत्यादीन्‌ स्वप्रपटान्‌ अवयम्‌।

पूर्वे स्वप्रपटा जागर्यायां धृताः।

उत्तरान्‌ स्वघ्रपटान्‌ केऽपि कण्टका अच्छिन्दन्‌ ,जगत्‌!

१०३. पिशाचो मामाक्रमतीत्यबिभयं देवोऽदर्शयत्‌ प्रसन्नं वदनारविन्दम्‌ कनकवृटर्वर्षतीत्यकरवमाशां

जगद्वचनवादिनी

दरिद्रलक्ष्मीर्दण्डेन मां शिरस्यताडयत्‌ स्फूर्जथोराघातमनुपालयन्‌ अवेपे

वृक्षात्‌ पुष्पाणि ममोत्तमाङ्खंऽपतन्‌।

मित्रैरुद्याने विहारमचिकीर्ष

ठत्रव सादिन सन्त उल्लासितखद्धा अदृश्यन्त दुश्वमपि प्रतीक्षितेन क्रमेण संजातं

सुखमपि प्रतीक्षितेन क्रमेण संजातम्‌ ,जगत्‌!

१०४. शिशुमिव त्वां भावयित्वा त्वया सुविज्ञातायां चित्रकलायां यो जन उपदिदिक्षति तव सकन्धमारुद्य-

ˆ कूर्चिकामङ्कलीभिरवूढं गृहीत्वा वर्णं वर्णय,

स्थूलानां रेखाणां स्थले सूक्ष्मा रेखा,

सूक्ष्माणां रेखाणां स्थले स्थूला रेखा मा कर्ष” इत्यादीत्यादि, तं दूरादेव करतलयुगलयोगेन नत्वा तत्र पलायस्व यत्र

तस्य च्छायाऽपि पतति ,जगत्‌!

१०५. यदि त्वं कर्तव्यं क्मचिरसि सश्रद्धं,

यदि त्वं देशद्रोहं स्वप्रेऽपि चिन्तयसि,

राष्ट्रे वर्तमानान्‌ संविधानोक्तान्‌ विरधींश्चनुतिष्ठसि, तावताऽलम्‌। त्वं देवालयं गच्छ वा मा वा गच्छ,

द्िपास्यं पूजय दामोदरं वा पूजय दुर्गां वा पूजय मा वा पूजय, त्वदभिलषितेषु वस्तुष्वारभटीं विधातुं कोऽधिकारो मे ?.जगत्‌! १०६. ताज्जानान्‌ स्मरामि ये बाहुभ्यां मामालिङ्खन्‌।

ताज्जनान्‌ स्मरामि ये मल्लविद्यापाण्डित्येन माममर्दयन्‌। ताज्जनान्‌ स्मरामि ये स्निग्धां दृष्टिं मय्यपातयन्‌।

जगद्वचनवादिनी

ताज्जनान्‌ स्मरामि ये चक्चुभ्यमिव मां दग्धुं प्रायतन्त आगामिनि काले के जना मां केनेत्थंभूतलक्षणेन मां स्मरन्ति ? मृदुस्पर्लेन वा, क्रूरनखरर्वा %

गुचिस्मितेन वा, व्यादत्तेन भीकरेण तुण्डेन वा ?,जगत्‌!

१०७. यद्यपि रूपशब्दगन्धरसस्पर्ाः सखायो मे। तथापि भूयादियमाशीर्मे

दृश्यासं रूपाणामनित्यत्वम्‌।

प्रत्यभिज्ञेयासं ठाब्दानामनित्यत्वम्‌।

जागर्यासं गन्धानामनित्यत्वे।

नाभिलष्यासं जिह्वाचापल्यम्‌।

लीनो भूयासमापाततो हिते स्पर्ञे

क्रीड्यासम्‌ अनन्तत्वान्वेषणाभिधया क्रीडया+जगत्‌!

१०८. वायात्‌ सुखस्पर्शो मारुतो सुगन्धिः तुष्याद्‌ विकसितं पुष्पं , यज्जानाति प्रमोदं भ्रमरस्य। अनावक्यके बद्धश्रकुटित्वे भूयासं बद्धभ्ुकुटिः। अनपेक्षिते द्राङुणे द्राङ्ासम्‌।

एधिषीय हृदये, येन स्वान्‌ दोषान्‌ द्रक्ष्यामि।

देयासं जगते विमलान्‌ विचारान्‌,

ये मद्रचितेभ्यो ग्रन्थेभ्यो निश्सरन्ति ,जगत्‌!

बहुशो विफला मृदुला व्याहारा इति विभावयन्‌ परुषे8। वचनेरिमां जगद्चनवाहिनीं व्यरचयज्गन्नाथ8॥